संस्कृतम् सन्धि प्रकार

———————————————————–
१. स्वरसन्धिः –> पूर्वान्तम् (स्वरः) + उत्तरादिः (स्वरः)
उदाहरणम् – अत्र + अस्ति – अत्रास्ति ।
२. व्यञ्जनसन्धिः –> पूर्वान्तम् (व्यञ्जनम्) + उत्तरादिः (स्वरो वा व्यञ्जनम्)
उदाहरणम् – तत् + नाम – तन्नाम ।
३. विसर्गसन्धिः –> पूर्वान्तम् (विसर्गः) + उत्तरादिः (स्वरो वा व्यञ्जनम्)
उदाहरणम् – रामः + च – रामश्च ।
———————————————————–
१.१ सवर्णदीर्घसन्धिः –> पूर्वान्तम् (अ.आ इ.ई उ.ऊ ऋ.ॠ) + उत्तरादिः (सवर्णस्वरः) –> आदेशः (आ, ई, ऊ, ॠ)
सूत्रम् – “अकः सवर्णे दीर्घः”
उदाहरणम् – तथापि, अस्तीति, साधूक्तम्, पितॄणम्
१.२ गुणसन्धिः –> पूर्वान्तम् (अ.आ) + उत्तरादिः (इ.ई उ.ऊ ऋ.ॠ लृ) –> आदेशः (ए, ओ, अर्, अल्)
सूत्रद्वयम् – “आद्गुणः” (आत् गुणः) “अदेङ्गुणः” (अत् एङ् गुणः)
उदाहरणम् – तथेति, नोक्तम्, सप्तर्षयः, तवल्कारः
१.३ वृद्धिसन्धिः –> पूर्वान्तम् (अ.आ) + उत्तरादिः (ए.ऐ ओ.औ) –> आदेशः (ऐ, औ)
सूत्रम् – “वृद्धिरेचि” (वृद्धिः एचि)
उदाहरणम् – तथैव​, तवौदार्यम्
१.४ यण्-सन्धिः –> पूर्वान्तम् (इ.ई उ.ऊ ऋ.ॠ लृ) + उत्तरादिः (असवर्णस्वरः) –> आदेशः (य् व् र् ल्)
सूत्रम् – “इको यणचि” (इकः यण् अचि)
उदाहरणम् – इत्यपि, प्रत्यवदत्, पित्रंशः, लाकृतिः
१.५ यान्त-वान्त-आदेश-सन्धिः –> पूर्वान्तम् (ए ऐ ओ औ) + उत्तरादिः (असवर्णस्वरः) –> आदेशः (अय् आय् अव् आव्)
सूत्रम् – “एचोऽयवायावः” (एचः अय् अव् आय् आवः)
उदाहरणम् – हरयागच्छ, तस्यायिदम्, गुरवादिश, बालकावागतौ
१.६ पूर्वरूपसन्धिः –> पूर्वान्तम् (ए ओ) + उत्तरादिः (अ) –> आदेशः (ए, ओ)
सूत्रम् – “एङः पदान्तादिति” (एङः पद अन्त तः इति)
उदाहरणम् – गृहेऽस्मि, सोऽहम्
———————————————————–
२.१ श्चुत्वसन्धिः –> पूर्वान्तम् (स् चु तु) + उत्तरादिः (चु तु) –> आदेशः (श् चु)
सूत्रम् – “स्तोः श्चुना श्चुः”
उदाहरणम् – लवश्च, तच्च, गुणिञ्जयतु
२.२ जश्त्वसन्धिः –> पूर्वान्तम् (वर्गीयव्यञ्जनम्) + उत्तरादिः (स्वरः मृदुव्यञ्जनम्) –> आदेशः (पूर्वान्तवर्गीयस्य तृतीयवर्णः)
सूत्रम् – “झलां जशोऽन्ते” (झलां जशः अन्ते)
उदाहरणम् – वागीशः, अजन्तः, तद्यथा, षड्रसाः, सुबन्तः​
———————————————————–

Advertisement
This entry was posted in Sanskrit and tagged , . Bookmark the permalink.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.