धर्म: क:?

 

संग्रहक: – श्रीमान् राजेंद्र: पौळ: , सियाटल

+१ ४२५ ८०२ १०६६

 

विभिन्नता इति पुस्तकेन राजीव-मल्होत्रा-महोदय: एकं संदेशं प्रेषितवान् – अब्राहमजन्येभ्य: रिलिजनत्रयेभ्य: सनातन: धर्म: निश्चित: भिन्न:। किंतु स: धर्मस्य संज्ञां स्पष्टतया न दत्तवान्। अत: आंग्लवर्ष२०१४त: अहं धर्मस्य‌ अर्थं मार्गयित्वा मार्गयित्वा अत्र संग्रहितवान्|

 

धर्मस्य विविधानां अंगानां दर्शनम् अध: प्रश्नोत्तररुपेन लिखितम्।

१. धर्म: क:?

२. धर्म: किमर्थं आवश्यकम्?

३. स्वधर्म: क:?

४. धर्मलक्षणानि कानि?

 

 

१.  धर्म: क:?

प्रभु: श्रीराम: उवाच –

 

विधानं शाश्वतं धर्म: तु सम्बध्दं येन सर्वकम्।

स्नेह-प्रेम-मयेऩ़़़एव बन्धनेन धरातले।।१.९.३।।

 

धर्ममूल: हि वेद: एष: ग्रन्थ: सनातन:।

यस्मै श्रद्धाम् प्रदास्याम: नूनम् आंतरिकीम् वयम्।।१.९.४।।

 

प्रकाशितेन वेदेन समाज: ऐक्यम कृतं तदा।

धर्मस्य ऐक्यात् समाज: अभूत् सत्यं एतत् न संशय:।।१.९.७।।

 

करुणामयेन हि ईशेन ध्रुवं वेदं प्रकाशितम्।

इन्दुनां चन्द्रसूनुनां वेदं आश्रित्य च एकता।।१.९.९।।

 

वेद: बध्नाति न: सर्वै: सर्वदेशीयकै: सह।

अस्मत् साम्राज्यभुक्तै: हि दूरान्तर-निवासिभि:।।१.९.१०।।

 

पवित्र-वेद्-ग्रंथेषु सर्वेषाम् दृश्यन्ते स्वता।

तस्मात् तै: गठिता नूनम् महाजाति: महीतले।।१.९.१२।।

 

धर्म: सर्वान् निबध्नाति, धर्म: धारयते अखिलम् ।

धर्म: मूलम् समाजस्य संघस्य न संशय: ।| १.१३.१५ |।

 

उरसि प्राणमयी श्रद्धा धर्म: एव प्रकीर्त्यते ।

येन कर्मणि ज्ञाने च भ्रातृत्वम् भजते जन: ।| १.१३.१६।|

 

विधि: जीवनयात्रा या समाजे धर्म: उच्यते।

समाजात् खलु अभिन्नेयम् धर्म: न अत्र विभिन्नता |।१.१३.१७।|

 

धर्महीना: च ये वा स्यु: स्यु: अनार्या: असंशयम्।

स्वार्थ-अन्धा: च कलहयुक्ता: ते सदा मत्सर अन्विता: भवेत् ||१.१३.१८।|

 

उत्सादयति संघर्षम् धर्म: परिजनेषु।

आत्मीयत्वम् सजात्येषु वेदनिष्ठेषु साधुषु भवेत् ।।१.१३.।|

 

स्मर्यताम् वाक्यम् एतम् मे तु (ह्)इन्दु*कल्याणसाधने ।

ईशेन प्रेरिता: यूयम् एतस्मिन् धरणीतले भवेत् ।।१:१३.२०।।

 

इन्दुनाम् विषये न हि स्यात् क:-अपि विश्वासघातक:।

अनार्जवम् प्रतारणाम् सर्वदा वर्जयेत् ध्रुवम्।

न तस्य विरोधित्वम् न मृषा भाषणम् तथा ।।१.१३.२१|।

 

परिवाद: न कर्तव्य: वेदे वर्जितमे एव तत्।

भातृवत् आचरेत् ताम् अस्तु भ्रातृवत् पालयेत् भृशम्।।१.१३.२२।।

 

धर्म: सताम् हित: पुंसाम् धर्म च आश्रय: सताम्।

धर्मात् लोकस्त्रय: तात् प्रवृत्ता: सचराचरा ।।महाभारत ३. ।।

 

सर्वात्मा येन तुष्टति स: धर्म: ।।३.७.११.१२।।

 

अहम् हि ब्रह्मण: अमृतस्य अव्ययस्य शाश्वतस्य ऐकान्तिकस्य सुखस्य धर्मस्य प्रतिष्ठा ।२.१४.२७।।

 

बलम् बलवताम्, च अहम् काम-राग-विवर्जितम् ।

धर्म-अविरुद्ध: भूतेषु काम: अहम् अस्मि भरतऋषभ:।।२.७.११।।

 

क्षत्रिय: हि प्रजारक्षणम् शस्त्रपाणि: प्रदण्डयन्।

निर्जितेय परसैन्यादि क्षितिम् धर्मेण पालयेत् ।।८.। ।

 

सर्वधर्मान् परित्यज्य माम् एकम् एव शरणम् व्रज।

अहम् त्वाम् सर्वपापेभ्य: मोक्षयिष्यामि मा शुच:।।२.१८.६६।।

 

२. धर्म: किमर्थम्?

 

एतद् (धर्मम्) साधयितुम् हि अर्थम् राष्ट्रस्य हि सम्-उद्-भवम्।

समाज: अयम् तु राष्ट्रम् हि तत् प्रतिष्ठानाय उच्यते ।।१.१३.१३।।

 

परिवाद: न कर्तव्य: वेदे वर्जितम् एव तत्।

भ्रातृवत् आचरेत् ताम्(वेदान्) अस्तु भ्रातृवत् पालयेत् भृषम् ।।१.१३.१४।।

 

एकत्वात् आत्मन: यद्वत् शरीरस्य एकता भवेत्।

धर्मस्य बन्धनेन एवम् राष्ट्रस्य स्यात् सुसंहति:(well-knit) ।।१.१३.३१।।

 

धर्म: समाजम्-इति-एतत् द्वयम् यत्र भवेन् मुने! ।

बहवय: गोष्ठ:-च यत्र-स्यु: राष्ट्रके च-असामाजिके भवेत् ।।१.१३.३४।।

युक्तिवाद्यम् भवेत् तत्-तु विध्वस्तम् तु-अचिरात् भवेत् |।१.१३.३५।।

 

प्रभव: नव-धर्मस्य चरित्रहानीकारक:।

दया सहानुभूति: वा न तिष्ठेत् (ह्)इन्दुवंशजे ।।१.१८.५६।।

 

यदा यदा धर्मस्य ग्लानि: भवति भारत।

अभि-उत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम् ।।२.४.७।।

 

परित्राणाय साधुनाम् विनाशाय च दुष्कृतानाम्।

धर्मसंस्थापनाय सम्भवामि युगे-युगे ।।२.४.८।।

 

३. स्वधर्म: क:?

 

श्रेयान् स्वधर्म: विगुण:, परधर्मात् सु-अनुष्ठितम्।

स्वभाव नियतम् कर्म कुर्वन् न आप्नोति किल्बिषम् ।।२.१८.४७।।

 

अथ चेत् त्वम्* इमम् धर्म्यम् संग्रामम् न करिष्यसि।

तत: स्वधर्मम् कीर्ति: च हित्वा पापम् अव-आप्स्यसि ।।२.३.३३।।

 

४. धर्मलक्षणानि

 

कर्म-तत्परता-धर्म इति धर्मस्य लक्षणम्।

निष्ठा(१)- आशा(२) -साहस(३)च एव दया(४) विनय (५) एव च।

सेवा(६) च एव भवन्ति-एते धर्मा: च मौलिका: (षट्)स्मृता:।।१.१८.१४।।

 

अव्यभिचारिणी भक्ति:(१)-ईशे वेदे तथा-एव च।

आत्मनि च समाजे च विज्ञेय: धर्म: उत्तम:।।१.१८.१५।।

 

ध्यायन् विश्वहितम् (२) नित्यम् मांगल्याम्-बुद्धिम्-उत्तमम्।

मंगलमयम्-ईशानम् येन-एतद्-रचितम् जगत्।।१.१८.१६।।

 

विपदि साहसिक:(३) य: तु धारयन् मानवम् गुणम्।

स: धीर: हि क्षम: च अस्ति कश्चानाम् नाशनाय् वै।

आर्तानाम् दु:खनाशाय-उद्धराय च मज्जताम्।।१.१८.१७।।

 

सर्वस्वम् संत्यजेत् धीर: रक्षार्थम् प्रतिवेशिनाम्।

युद्धेत् संयुगे वार: त्यजेत् प्राणान् स्वकान् खलु।

रक्षार्थम् समधर्माणम् स्वभाव: एष: तस्य हि ।।१.१८.२९।।

 

दयालु: (४) स्यात् सदा व्यग्र उद्धर्तुम्-आर्तबान्धवम्।

यद्यपि अस्याम् प्रचेष्टायाम् क्लेश: बहुविध: भवेत् ।।१.१८.२०।।

 

शिष्टया: स्यु: इन्दव: सर्वे सर्वदैव परस्परम्।

रुढता पापम् एव स्यात् पुण्यम् च शिष्टता(५) भृषम्।।१.१८.२१।।

 

लक्ष्यम् अव भवेत् तस्य च इन्दुनाम् सेवनम् सदा।

अवसर: हि यदा प्राप्त: तेषाम् सेवा(६)पर: भवेत्।।1१.१८.२२।।

 

शौर्यम् आशाम् भजे निष्ठाम् शिष्ट: दानपर: भवेत्।

सामाजिके सेवापर: एतद्-वेदानुशासनम् ।।१.१८.२३।।

 

अनुसरेत् य: पन्थानम् षड्–इवधम् च जन: भुवि।

ईश्वरस्य कृपापात्रम् हि आमुत्र भवेद्धि स: ।।१.१८.२४।।

 

षडविधस्य च पन्थान: ये सदैव-अनुसारिण:।

पुण्यात्मान: हिते सन्ति च अत्र वै घरणीतले ।।१.१८.२५।।

 

लिखेत् वा न लिखेत् चित्रम् चित्रकार: भवेत् सदा।

(किंतु) पुण्यात्मा न-अस्ति पुण्यात्मा यदा स: न-अस्ति पुण्यकृत् ।।१.१८.२६।।

 

विद्यते साधुता यस्मिन् निष्ठा यस्य अस्ति वृत्तिषु।

षड्धा मार्गानुसारी तु सत्यरुपेण हि अस्ति स: ।।१.१८.२७।।

 

यस्य वा जीवने वृत्ति: मन्त्रिण: श्रमिकस्य च।

सेनाधिनायकस्य-अपि ताम् कुर्यात् स: त्वतन्दित: ।।१.१८.२८।।

 

दैनन्दिनम् सदा कर्म कुर्यात् साधु विचारयन् ।

इत: अ्न्यत् परिचिन्ताम् तु न स्थापयेत् क्वचित् ।।१.१८.२९।।

 

वृत्तिसंपादने द्वैधम् विरक्ति: च वै भवेत् ।

एषा पापमयी बुद्धि: परित्याज्या सदाबुधै: ।।१.१८.३०।।

धृति: क्षमा दम: अस्तोय शौचन् इन्द्रियनिग्रह:।

धी विद्या सत्यम् अक्रोध: दशकम् धर्म-लक्षणम् ।।५. ६.९२।।

:

सत्य अहिंसा ब्रह्मचर्य अस्तेय: अपरिग्रह: इन्दियनिग्रह: नियमा ।।१०त: बुद्ध-विपश्यना-धर्म:।।

 

यम-नियम-आसन-प्राणायाम -प्रत्याहार-धारणा-ध्यान-समाधयो: अष्टौ-अंगानि।। ९.२.२८ योग-धर्म: ।।

सत्य्-अहिंसा-ब्रह्मचर्य-अस्तेय-अपरिग्रहा: यमा:।।९.२.२९।।

शौचम्-संतोष:-तप:-स्वाध्याय:-ईश्वरप्रणिधाना: नियमा:।।९.२.३०।।

 

नष्ट-मोह: स्मृति:-लब्धा त्वत् प्रसादात् अच्युत।

स्थित: अस्मि गतसन्देह: करिष्ये वचनम् तव।। २.१८.७३।।

 

संदर्भ शृंखला

 

१. महर्षि वाल्मिकिविरचित: श्रीरामसंवाद: ।

२. महर्षि व्यासविरचित श्रीमद् भगवद् गीता।

३. महर्षि व्यासविरचित श्रीमद् भागवत।

४. महर्षि व्यासविरचित महाभारत।

५. मनुस्मृती।

६. श्री स्वामीनायण वचनामृत।

७. श्री हनुमानप्रसाद पोद्दारलिखित मानवधर्म ।

८. पाराशरस्मृती।

९. पतंजलि योगसुत्रे ।

१०. विपश्यनाकेंद्रेन प्रकाशितम् पुस्तकम्।

 

श्लोकान्ते संदर्भे प्रथमम् एतद्‌‌ क्रमांकम् स्थापितम्।

याज्ञवल्क्यस्मृती, मनुस्मृती, पाराशरस्मृती, शंखलिखितस्मृती, इत्यादय: स्मृतय: श्रवणात् धर्मगुण उत्पत्ति़ि: मानवेषु।।६त: ।।

 

धर्मनिष्ठा = प्राणनिष्ठा ।।६त:।।

Advertisement
This entry was posted in Sanskrit and tagged , , . Bookmark the permalink.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.